अथ संस्कृतानुवादकेभ्यो मार्गदर्शिका। Ubuntuकृते कृतेषु सर्वेषु अनुवादेषु प्रयुक्तेषु पारिभाषिकशब्देषु अन्यत्रापि लोके प्रयुक्तेषु च पारस्परिकी समता स्यात्। अतः कस्यचिच्छब्दस्यानुवादात् पूर्वम् अन्यैः कृता अनुवादा अपि निरीक्षणीयाः। यदि Launchpad इत्यस्मिन् कस्यचिच्छब्दस्यानुवादः केनचिदपि न कृतं तर्हि तस्मै sanskritdocuments.org/dict/English-Sanskrit_Computer_Dictionary.pdf इत्यस्मिन् शब्दकोशे spokensanskrit.de इत्यस्मिन् जालस्थाने वा अन्विष्टव्यम्। आङ्ग्लवाक्येषु शब्दानां यः क्रमो वर्तते तमेव संस्कृतानुवादेऽपि रक्षितुं प्रयासः क्रियताम्। येषु आङ्ग्लवाक्येषु तद्वाक्यप्रदर्शकस्तन्त्रः (Software) प्रयोक्ता (User) वा कर्त्ता तेषाम् अनुवादे कर्मवाच्यं प्रयोक्तव्यम्। इति।